श्री विष्णु सहस्र नाम स्तोत्रम्
ॐ शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ १ ॥
यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नंति सततं विष्वक्सेनं तमाश्रये ॥ २ ॥
पूर्व पीठिका
व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वंदे शुकतातं तपोनिधिम् ॥ ३ ॥
व्यासाय विष्णु रूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४ ॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैक रूप रूपाय विष्णवे सर्वजिष्णवे ॥ ५ ॥
यस्य स्मरणमात्रेण जन्मसंसारबंधनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६ ॥
ॐ नमो विष्णवे प्रभविष्णवे ।
श्री वैशंपायन उवाच
श्रुत्वा धर्मा नशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शांतनवं पुनरेवाभ्य भाषत ॥ ७ ॥
युधिष्ठिर उवाच
किमेकं दैवतं लोके किं वाऽप्येकं परायणं
स्तुवंतः कं कमर्चंतः प्राप्नुयुर्मानवाः शुभम् ॥ ८ ॥
को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जंतुर्जन्मसंसार बंधनात् ॥ ९ ॥
श्री भीष्म उवाच
जगत्प्रभुं देवदेव मनंतं पुरुषोत्तमम् ।
स्तुवन्नाम सहस्रेण पुरुषः सततोत्थितः ॥ १० ॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ११ ॥
अनादि निधनं विष्णुं सर्वलोक महेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्व दुःखातिगो भवेत् ॥ १२ ॥
ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनम् ।
लोकनाथं महद्भूतं सर्वभूत भवोद्भवम्॥ १३ ॥
एष मे सर्व धर्माणां धर्मोऽधिक तमोमतः ।
यद्भक्त्या पुंडरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ १४ ॥
परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् । १५ ॥
पवित्राणां पवित्रं यो मंगलानां च मंगलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १६ ॥
यतः सर्वाणि भूतानि भवंत्यादि युगागमे ।
यस्मिंश्च प्रलयं यांति पुनरेव युगक्षये ॥ १७ ॥
तस्य लोक प्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नाम सहस्रं मे श्रुणु पाप भयापहम् ॥ १८ ॥
यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १९ ॥
ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ॥
छंदोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ २० ॥
अमृतां शूद्भवो बीजं शक्तिर्देवकिनंदनः ।
त्रिसामा हृदयं तस्य शांत्यर्थे विनियुज्यते ॥ २१ ॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यांतं नमामि पुरुषोत्तमम् ॥ २२ ॥